ॐ नाना श्रान्ताय श्रीरस्ति, इति रोहित शुश्रुम।
पापो नृषद्वरो जन, इन्द्र इच्चरतः सखा। चरैवेति चरैवेति…॥
ॐ पुष्पिण्यौ चरतो जंघे, भूष्णुरात्मा फलग्रहिः।
शेरेऽस्य सवेर् पाप्मानः श्रमेण प्रपथे हताः। चरैवेति चरैवेति…॥
ॐ आस्ते भग आसीनस्य, ऊध्वर्स्तिष्ठति तिष्ठतः।
शेते निपद्यमानस्य, चराति चरतो भगः। चरैवेति चरैवेति…॥
ॐ कलिः शयानो भवति, संजिहानस्तु द्वापरः।
उत्तिष्ठँस्त्रेताभवति, कृतं संपद्यते चरन्। चरैवेति चरैवेति…॥
ॐ चरन् वै मधु विन्दति, चरन् स्वादुमुदुम्बरम्।
सूयर्स्य पश्य श्रेमाणं, यो न तन्द्रयते चरन्। चरैवेति चरैवेति…॥
(ऐतरेय ब्राह्मण ७.१५)
No responses yet